|
|
 |
 |
|
|
४ विराटपर्व.jpg)
॥ श्रीः ॥
4.59. अध्यायः 059
Mahabharata - Virata Parva - Chapter Topics
द्रोणार्जुनयोर्युद्धवर्णनम् ॥ 1 ॥ अर्जुनबाणाहतिविषपणे द्रोणे अश्वत्थाम्ना तद्रक्षणायार्जुनप्रत्यभियानम् ॥ 2 ॥ अत्रान्तरेऽर्जुनदत्तावकाशेन द्रोणेन रणादपयानम् ॥ 3 ॥
Mahabharata - Virata Parva - Chapter Text
वैशम्पायन उवाच। 4-59-0x(3235)(30823)
जितं वैकर्तनं दृष्ट्वा पार्थो वैराटिमब्रवीत्।
स्थिरो भव त्वं संग्रामे जयोऽस्माकं नृपात्मजः ॥ 4-59-1(30824)
यावच्छङ्खमुपाध्यास्ये द्विषतां रोमहर्षणम्।
अविक्लबमसंभ्रान्तमव्यक्तहृदयेक्षणम्। 4-59-2(30825)
याहि शीघ्रं यतो द्रोणो ममाचार्यो रणे स्थितः ॥
तथा संक्रीडमानस्य अर्जुनस्य रणाजिरे। 4-59-3(30826)
बलं सत्वं च तेजश्च लाघवं च व्यवर्धत ॥
तच्चाद्भुतमभिप्रेक्ष्य भयमुत्तरमाविशत् ॥ 4-59-4(30827)
उत्तर उवाच। 4-59-5x(3236)
अस्त्राणां तव दिव्यानां शरौघान्क्षिपतः शितान्।
मनो मे मुह्यतेऽत्यर्थं तव दृष्ट्वा पराक्रमम् ॥ 4-59-5(30828)
द्वैधीभूतं मनो मह्यं भयाद्भरतसत्तम ।
अदृष्टपूर्वं पश्यामि तव गाण्डीवनिस्वनम् ॥ 4-59-6(30829)
तव बाहुबलं चैव धनुः कर्षयतो बहु।
तव तेजो दुराधर्षं यथा विष्णोस्त्रिविक्रमे ॥ 4-59-7(30830)
वैशम्पायन उवाच। 4-59-8x(3237)
तमुत्तरश्चित्रमवेक्ष्य गाण्डिवं शरांश्च मुक्तान्सहसा किरीटिना ।
भीतोऽब्रवीदर्जुनमाजिमध्ये नाहं तवाश्वान्विषहे नियन्तुम् ॥ 4-59-8(30831)
तमब्रवीत्किंचिदिव प्रहस्य गाण्डीवधन्वा द्विषतां निहन्ता ।
मया सहायेन कुतोऽस्ति ते भयं प्रेह्युत्तराश्वाननुमन्त्र्य वाहय ॥ 4-59-9(30832)
वैशम्पायन उवाच। 4-59-10x(3238)
आश्वासितस्तेन धनंजयेन वैराटिरश्वान्प्रतुतोदय शीघ्रम्।
धनंजयश्चापि विकृष्य चापं विष्फारयामास महेन्द्रकल्पः ॥ 4-59-10(30833)
उत्तरं चैव बीभत्सुरब्रवीत्पुनरर्जुनः ।
न भेतव्यं मया सार्धं तात संग्राममूर्धनि ॥ 4-59-11(30834)
राजपुत्रोऽसि ते भद्रं कुले महति मात्स्यके।
जातस्त्वं क्षत्रियकुले न विषीदितुमर्हसि ॥ 4-59-12(30835)
धृतिं कृत्वा सुविपुलां राजपुत्र रथं मम।
युध्यमानस्य संग्रामे राजभिः सह वाहय ॥ 4-59-13(30836)
उक्त्वा तमेवं बीभत्सुरर्जुनः पुनरब्रवीत्।
पाण्डवो रथिनां श्रेष्ठो भारद्वाजं समीक्ष्य तु ॥ 4-59-14(30837)
यत्रैषा काञ्चनी वेदिर्दृश्यतेऽग्निशिखोपमा ।
उच्छ्रिता काञ्चने दण्डे पताकाभिरलंकृता ॥ 4-59-15(30838)
तत्र मां वह भद्रं ते द्रोणं योत्स्यामि सत्तमम्।
भारद्वाजेन योत्स्येऽहमाचार्येण महात्मना ॥ 4-59-16(30839)
अमी शोणाः प्रकाशन्ते तुरगाः साधुवाहिनः ।
मुक्ता रथवरे तस्य सर्वशिक्षाविशारदाः ॥ 4-59-17(30840)
यतो रथवरे शूरः सर्वशस्त्रभृतांवरः।
स्निग्धवैडूर्यसंकाशस्ताम्राक्षः प्रियदर्शनः ॥ 4-59-18(30841)
आदित्य इव तेजस्वी बलवीर्यसमन्वितः।
सर्वलोकधनुःश्रेष्ठः सर्वलोकेषु पूजितः।
अङ्गिरोशनसोस्तुल्यो नये बुद्धिमतांवरः ॥ 4-59-19(30842)
चत्वारो निखिला वेदाः साङ्गोपाङ्गाः सलक्षणाः ।
धनुर्वेदश्च कार्त्स्न्येन ब्राह्मं चास्त्रं प्रतिष्ठितम् ॥ 4-59-20(30843)
पुराणमितिहासश्च अर्थविद्या च मानवम् ।
भारद्वाजे समस्तानि सर्वाण्येतानि सांप्रतम् ॥ 4-59-21(30844)
क्षमा दमश्च सत्यं च तेजो मार्दवमार्जवम् ।
प्रतिष्ठिता गुणा यस्मिन्बहवो द्विजसत्तमे ॥ 4-59-22(30845)
यस्याहमिष्टः सततं मम चेष्टः सदा च सः।
क्षत्रधर्मं पुरस्कृत्य तेन योत्स्ये हि सांप्रतम् ॥ 4-59-23(30846)
आचार्यं प्रापयेदानीं ममोत्तर महारथम्।
अपरं पश्य संग्राममद्भुतं मम तस्य च॥ 4-59-24(30847)
उत्तरस्त्वेवमुक्तोऽश्वांश्चोदयामास तं प्रति ।
आजगामार्जुनरथो भारद्वाजरथं प्रति ॥ 4-59-25(30848)
तमापतन्तं वेगेन पाण्डवं सरथं रणे।
द्रोणोप्यभ्यद्रवत्पार्थं मतो मत्तमिव द्विपम् ॥ 4-59-26(30849)
स तु रुक्मरथं दृष्ट्वा कौन्तेयः समभिद्रुतम्।
आचार्यं तं महाबाहुः प्राञ्जलिर्वाक्यमब्रवीत् ॥ 4-59-27(30850)
उषिताः स्मो वने वासं प्रतिकर्मचिकीर्षवः ।
कोपं नार्हसि नः कर्तुं सदा समरदुर्जय ॥ 4-59-28(30851)
अहं तु ताडितः पूर्वं प्रहरेयं तवानघ ।
इति मे वर्तते बुद्धिस्तद्भवान्क्षन्तुमर्हति ॥ 4-59-29(30852)
ततः प्राध्मापयच्छङ्खं भेरीपटहवादितम् ।
व्यक्षोभत बलं सर्वमुद्धूतमिव सागरम् ॥ 4-59-30(30853)
वैशम्पायन उवाच। 4-59-31x(3239)
ततस्तु प्राहिणोद्द्रोणः शरानथ स विंशतिम्।
अप्राप्तानेव तान्पार्थश्चिच्छेद कृतहस्तवान् ॥ 4-59-31(30854)
ततः शरसहस्रेण रथं पार्थस्य वीर्यवान् ।
अवाकिरत्ततो द्रोणः शीघ्रहस्तं प्रदर्शयन् ॥ 4-59-32(30855)
एवं प्रववृते युद्धं भारज्वाजकिरीटिनोः ॥ 4-59-33(30856)
अश्वाञ्शोणान्महावेगान्हंसवर्णैस्तु वाजिभिः ।
मिश्रितान्समरे दृष्ट्वा व्यस्मयन्त पृथग्जनाः ॥ 4-59-34(30857)
रथं रथेन पार्थस्य समाहत्य परंतपः ।
हर्षयुक्तस्तदाऽऽचार्यः प्रत्यगृह्णात्स पाण्डवम् ॥ 4-59-35(30858)
समाश्लिष्टाविवान्योन्यं द्रोणपाण्डवयोर्ध्वजौ ।
दृष्ट्वा प्राकम्पत मुहुर्भारतानां महाचमूः ॥ 4-59-36(30859)
तत्तु युद्धं प्रववृते ह्याचार्यस्यार्जुनस्य च।
विमुञ्चतोः शरानुग्रान्विशिखान्दीप्ततेजसः ॥ 4-59-37(30860)
तौ वीरौ वीर्यसंपन्नौ दृष्ट्वा समरमूर्धनि।
आचार्यशिष्यौ रथिनौ कृतवीर्यौ तरस्विनौ ॥ 4-59-38(30861)
उभौ विश्रुतकर्माणावुभौ श्रमगतौ जये।
उभावतिरथौ लोके ह्युभौ परपुंरजयौ।
क्षिपन्तौ शरजालानि क्षत्रियान्मोह आविशत् ॥ 4-59-39(30862)
व्यस्मयन्त नराः सर्वे द्रोणार्जुनसमागमे।
नराणां ब्रुवतां वाक्यं श्रूयते स महास्वनः ॥ 4-59-40(30863)
द्रोणं हि समरे कोऽन्यो योद्धुमर्हत्यथार्जुनात्।
रौद्रः क्षत्रियधर्मोऽयं गुरं वै यदयोधयत् ॥ 4-59-41(30864)
इत्यब्रुवञ्जनास्तत्र संग्रामशिरसि स्थिताः ।
तौ समीक्ष्य तु संरब्धौ सन्निकृष्टौ महारथौ ॥ 4-59-42(30865)
छाद्येतां शरौघैस्तावन्योन्यमुपराजितौ ।
संयुगे संचकाशेतां कालसूर्याविवोदितौ ॥ 4-59-43(30866)
विष्फार्य च महाचापं हेमपृष्ठं दुरासदम्।
संरब्धस्तु तदा द्रोणः प्रत्ययुध्यत फल्गुनम् ॥ 4-59-44(30867)
स सायकमयैर्जालैरर्जुनस्य रथं प्रति।
भानुमद्भिः शिलाधौतैर्बाणैः प्राच्छादयद्दिशः ॥ 4-59-45(30868)
अर्जुनस्तु तदा द्रोणं महावेगैर्महारथः।
विव्याध शतशो बाणैर्धाराभिरिव पर्वतम् ॥ 4-59-46(30869)
कालमेघ इवोष्णान्ते फल्गुनः समवाकिरत् ॥ 4-59-47(30870)
तस्य जाम्बूनदमयैश्चितरैश्चापच्युतैः शरैः।
प्राच्छादयद्रथश्रेष्ठं भारद्वाजोऽर्जुनस्य वै ॥ 4-59-48(30871)
तथैव दिव्यं गाण्डीवं धनुरानम्य चार्जुनः ।
शत्रुघ्नं वेगवत्सृष्टं भारसाधनमुत्तमम् ॥ 4-59-49(30872)
शोभते स्म महावाहुर्गाण्डीवं विक्षिपन्धनुः।
शरांश्च विसृजंश्चित्रान्सुवर्णविकृतान्बहून् ॥ 4-59-50(30873)
प्राच्छादयदमेयात्मा भारद्वाजरथं प्रति।
द्रोणचापविनिर्मुक्तान्बाणान्बाणैरवारयत् ॥ 4-59-51(30874)
सरथोऽप्यचरत्पार्थः प्रेक्षणीयो महारथः ।
युगपद्दिक्षु सर्वासु सर्वतोऽस्त्राण्यवासृजम् ॥ 4-59-52(30875)
आददानं शरान्घोरान्संदधानं च पाण्डवम् ।
विसृजन्तं च क्रौन्तेयं न स्म पश्यन्ति लाघवाम् ॥ 4-59-53(30876)
एकच्छायमिवाकाशं बाणैश्चक्रे समन्ततः।
नादृश्यत ततो द्रोणो नीहारेणेव पर्वतः ॥ 4-59-54(30877)
मरीचिविकचस्येव राजन्भानुमतो वपुः।
आसीत्पार्थस्य सुमहद्वपुः शरशतार्चितम् ॥ 4-59-55(30878)
क्षिपतः शरजालानि कौन्तेयस्य महात्मनः ।
तान्विधूय शरान्घोरान्द्रोणोऽपि समितिंजयः ।
बभासे तिमिरं व्योम्नि विधूय सविता यथा ॥ 4-59-56(30879)
अग्निचक्रोपमं घोरं मण्डलीकृतमाहवे।
विकृष्य सुमहच्चापं मेघस्तनितनिस्वनम् ।
असकृत्मुञ्चतो बाणान्ददृशुः कुरवो युधि ॥ 4-59-57(30880)
दिक्षु सर्वासु विपुलः शुश्रुवेऽथ जनैस्तदा।
द्रोणस्यापि धनुर्घोषो विद्युत्स्तनितनिस्वनः ।
अभवद्विस्मयकरः सैन्यानां भरतर्षभ ॥ 4-59-58(30881)
तप्तजाम्बूनदमयैर्दीप्तैरग्निसमैः शरैः।
प्राच्छादयदमेयात्मा दिशः सूर्यस्य च प्रभाम् ॥ 4-59-59(30882)
ततः काञ्चनपङ्खानां शराणां नतपर्वणाम्।
वियद्गतानां चरतां दृश्यन्ते बहवो व्रजाः ॥ 4-59-60(30883)
शरासनात्तु द्रोणस्य प्रभवन्ति स्म सायकाः।
एको दीर्घ इवाभान्तः प्रदृश्यन्ते महाशराः ।
आकाशे समदृश्यन्त हंसानामिव पङ्क्तयः ॥ 4-59-61(30884)
एवं सुवर्णविकृतान्विमुञ्चन्तौ शरान्बहून्।
आकाशं संवृतं वीरावुल्काभिरिव चक्रतुः ॥ 4-59-62(30885)
तयोः शराश्च विबभुः कङ्कबर्हिणवाससः ।
पङ्क्त्यः शरदि मत्तानां सारसानामिवाम्बरे ॥ 4-59-63(30886)
तत्तु युद्धं महाघोरं तयोः संरब्धयोरभूत्।
अत्यद्भुतमचिन्त्यं च वृत्रवासवयोरिव ॥ 4-59-64(30887)
महागजाविवासाद्य विषाणाग्रैः परस्परम्।
शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः ॥ 4-59-65(30888)
अथ त्वाचार्यमुख्येन शरान्सृष्टाञ्शिलाशितान्।
अवारयच्छितैर्बाणैरर्जुनो जयतांवरः ॥ 4-59-66(30889)
दर्शयन्नैन्द्रमात्मानमुग्रमुग्रुपराक्रमः।
इषुभिस्तूर्णमाकाशं बहुभिश्च समावृणोत्। 4-59-67(30890)
जिघांसन्तं नरव्याघ्रमर्जुनं भीमदर्शनम् ।
विव्याध निशितैर्द्रोणः शरैः सन्नतपर्वभिः ॥ 4-59-68(30891)
हृष्टः समभवद्द्रोणो रणशौण्डः प्रतापवान् ।
अर्जुनेन समं क्रीडञ्शरैः सन्नतपर्वभिः ॥ 4-59-69(30892)
तौ व्यदारयतां शूरौ सन्नद्धौ रणशोभिनौ ।
उदीरयन्तौ दिव्यानि ब्राह्माद्यस्त्राणि भागशः ॥ 4-59-70(30893)
पार्थस्तु समरे शूरो दर्शयन्वीर्यमात्मनः।
स मह्यस्त्रैर्महात्मानं द्रोणं प्राच्छादयच्छरैः ॥ 4-59-71(30894)
अस्त्रैरस्त्राणि संवार्य पार्थो द्रोणमवारयत् ॥ 4-59-72(30895)
तयोरासीत्संप्रहारः क्रुद्धयोर्नरसिंहयोः।
अमृष्यमाणयोः सङ्ख्ये बलिवासवयोरिव ॥ 4-59-73(30896)
दर्शयेतां महास्राणि भारद्वाजार्जुनौ रणे ॥ 4-59-74(30897)
ऐन्द्रं वायव्यमाग्नेयमस्त्रमस्त्रेण पाण्डवः ।
मुक्तंमुक्तं द्रोणचापाद्ग्रमते स्म पुनः पुनः ॥ 4-59-75(30898)
एवं शूरौ महेष्वासौ विसृजन्तौ शिलाशितान्।
एकच्छायमकुर्वातां गगनं शरवृष्टिभिः ॥ 4-59-76(30899)
ततोऽर्जुनेन मुक्तानां पततां च शरीरिपु।
पर्वतेष्विव वज्राणां शराणां श्रूयते स्वनः ॥ 4-59-77(30900)
ततो नागा रथाश्वाश्च सादिनश्च विशांपते।
शोणिताक्ताश्च दृश्यन्ते पुष्पिता इव किंशुकाः ॥ 4-59-78(30901)
बाहुभिश्च सकेयूरैर्निकृत्तैश्च महारथैः ।
सुवर्णाचित्रैः कवचैर्ध्वजैश्च विनिपातितैः ॥ 4-59-79(30902)
योधैश्च निहतैस्तत्र पार्थबाणाभिपीडितैः।
बलमासीत्सुसंभ्रान्तं द्रोणार्जुनसमागमे ॥ 4-59-80(30903)
विधृन्वानौ तु तौ वीरौ धनुषी भारसाधने।
प्राच्छादयेतामन्योन्यं दिधक्षन्तौ वरेषुभिः ॥ 4-59-81(30904)
अथान्तरिक्षे नादोऽभूद्द्रोणं तत्र प्रशंसताम् ।
दुष्करं कृतवान्द्रोणो यदर्जुनमयोधयत् ॥ 4-59-82(30905)
प्रमाथिनं महावीर्यं दृढमुष्टिं दुरासदम्।
जेतारं सर्वदैत्यानां सर्वेषां च महारथम् ॥ 4-59-83(30906)
अविभ्रमं च शिक्षां च लाघवं दूरपातनम् ।
पार्थस्य समरे दृष्ट्वा द्रोणस्यासीच्च विस्मयः ॥ 4-59-84(30907)
तत्प्रवृत्तं चिरं घोरं तयोर्युद्धं महात्मनोः ।
अवर्तत महारौद्रं लोकसंक्षोभकरकम् ॥ 4-59-85(30908)
अथ गाण्डीवमुद्यम्य दिव्यं धनुरमर्षणः ।
विचकर्ष रणे पार्थो बाहुभ्यां भरतर्षभः ॥ 4-59-86(30909)
तस्य बाणमयं वर्षे शलभानामिवाभवत् ।
न च बाणान्तरे तस्य वायुः शक्नोति सर्पितुम् ॥ 4-59-87(30910)
अभीक्ष्णं संदधानस्य बाणानुत्सृजतस्तथा।
नान्तरं ददृशे किंचित्पार्थस्यापततोपी च ॥ 4-59-88(30911)
युद्धे तु कृतशीघ्रास्त्रे वर्तमाने सुदारुणे।
शीघ्राच्छीघ्रतरं पार्थः शरानन्यानुदैरयत् ॥ 4-59-89(30912)
ततः शरसहस्राणि शराणां नतपर्वणाम्।
युगपत्प्रापतंस्तत्र द्रोणस्य रथमन्तिकात् ॥ 4-59-90(30913)
विकीर्यमाणे द्रोणे तु शरैर्गाण्डीवधन्वना ॥
हाहाकारो महानासीत्सैन्यानां भरतर्षभ ॥ 4-59-91(30914)
पाण्डवस्य तु शीघ्रास्त्रं मघवा समपूजयत्।
गन्धर्वाप्सरसश्चैव ये च तत्र समागताः ॥ 4-59-92(30915)
द्रोणं युद्धार्णवे मग्नं दृष्ट्वा पुत्रः प्रतापवान्।
ततो वृन्देन महता रथिनां रथियूथपः ।
आचार्यपुत्रस्तु शरैः पाण्डवं प्रत्यवारयत् ॥ 4-59-93(30916)
अश्वत्थामा तु तत्कर्म हृदयेन महात्मनः।
पूजयामास पार्थस्य कोपं चास्य तदाऽकरोत् ॥ 4-59-94(30917)
स भन्युवशमापन्नः पार्थमभ्यद्रवद्रणे ।
किरञ्शरसहस्राणि पर्जन्य इव वृष्टिमान् ॥ 4-59-95(30918)
आवृत्य च महाबाहुर्यतो द्रोणस्ततोऽभवत्।
अन्तरं प्रददौ पार्थो द्रोणस्य व्यपसर्पितुम् ॥ 4-59-96(30919)
स तु लब्धान्तरस्तूर्णमपायाञ्जवनैर्हयैः ।
छिन्नवर्मध्वजरथो निकृत्तः परमेषुभिः ॥ 4-59-97(30920)
पराजिते तदा द्रोणे द्रोणपुत्रः समागतः।
सदण्ड इव रक्ताक्षः कृतान्तः समरे स्थितः ॥ ॥ 4-59-98(30921)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि एकोनषष्टितमोऽध्यायः ॥ 59 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|