(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharat Part 4 | Virat Parva | महाभारत | विराट पर्व


॥ श्रीः ॥
4.59. अध्यायः 059
Mahabharata - Virata Parva - Chapter Topics
द्रोणार्जुनयोर्युद्धवर्णनम् ॥ 1 ॥ अर्जुनबाणाहतिविषपणे द्रोणे अश्वत्थाम्ना तद्रक्षणायार्जुनप्रत्यभियानम् ॥ 2 ॥ अत्रान्तरेऽर्जुनदत्तावकाशेन द्रोणेन रणादपयानम् ॥ 3 ॥
Mahabharata - Virata Parva - Chapter Text

वैशम्पायन उवाच। 4-59-0x(3235)(30823)
जितं वैकर्तनं दृष्ट्वा पार्थो वैराटिमब्रवीत्।
स्थिरो भव त्वं संग्रामे जयोऽस्माकं नृपात्मजः ॥ 4-59-1(30824)
यावच्छङ्खमुपाध्यास्ये द्विषतां रोमहर्षणम्।
अविक्लबमसंभ्रान्तमव्यक्तहृदयेक्षणम्। 4-59-2(30825)
याहि शीघ्रं यतो द्रोणो ममाचार्यो रणे स्थितः ॥
तथा संक्रीडमानस्य अर्जुनस्य रणाजिरे। 4-59-3(30826)
बलं सत्वं च तेजश्च लाघवं च व्यवर्धत ॥
तच्चाद्भुतमभिप्रेक्ष्य भयमुत्तरमाविशत् ॥ 4-59-4(30827)
उत्तर उवाच। 4-59-5x(3236)
अस्त्राणां तव दिव्यानां शरौघान्क्षिपतः शितान्।
मनो मे मुह्यतेऽत्यर्थं तव दृष्ट्वा पराक्रमम् ॥ 4-59-5(30828)
द्वैधीभूतं मनो मह्यं भयाद्भरतसत्तम ।
अदृष्टपूर्वं पश्यामि तव गाण्डीवनिस्वनम् ॥ 4-59-6(30829)
तव बाहुबलं चैव धनुः कर्षयतो बहु।
तव तेजो दुराधर्षं यथा विष्णोस्त्रिविक्रमे ॥ 4-59-7(30830)
वैशम्पायन उवाच। 4-59-8x(3237)
तमुत्तरश्चित्रमवेक्ष्य गाण्डिवं शरांश्च मुक्तान्सहसा किरीटिना ।
भीतोऽब्रवीदर्जुनमाजिमध्ये नाहं तवाश्वान्विषहे नियन्तुम् ॥ 4-59-8(30831)
तमब्रवीत्किंचिदिव प्रहस्य गाण्डीवधन्वा द्विषतां निहन्ता ।
मया सहायेन कुतोऽस्ति ते भयं प्रेह्युत्तराश्वाननुमन्त्र्य वाहय ॥ 4-59-9(30832)
वैशम्पायन उवाच। 4-59-10x(3238)
आश्वासितस्तेन धनंजयेन वैराटिरश्वान्प्रतुतोदय शीघ्रम्।
धनंजयश्चापि विकृष्य चापं विष्फारयामास महेन्द्रकल्पः ॥ 4-59-10(30833)
उत्तरं चैव बीभत्सुरब्रवीत्पुनरर्जुनः ।
न भेतव्यं मया सार्धं तात संग्राममूर्धनि ॥ 4-59-11(30834)
राजपुत्रोऽसि ते भद्रं कुले महति मात्स्यके।
जातस्त्वं क्षत्रियकुले न विषीदितुमर्हसि ॥ 4-59-12(30835)
धृतिं कृत्वा सुविपुलां राजपुत्र रथं मम।
युध्यमानस्य संग्रामे राजभिः सह वाहय ॥ 4-59-13(30836)
उक्त्वा तमेवं बीभत्सुरर्जुनः पुनरब्रवीत्।
पाण्डवो रथिनां श्रेष्ठो भारद्वाजं समीक्ष्य तु ॥ 4-59-14(30837)
यत्रैषा काञ्चनी वेदिर्दृश्यतेऽग्निशिखोपमा ।
उच्छ्रिता काञ्चने दण्डे पताकाभिरलंकृता ॥ 4-59-15(30838)
तत्र मां वह भद्रं ते द्रोणं योत्स्यामि सत्तमम्।
भारद्वाजेन योत्स्येऽहमाचार्येण महात्मना ॥ 4-59-16(30839)
अमी शोणाः प्रकाशन्ते तुरगाः साधुवाहिनः ।
मुक्ता रथवरे तस्य सर्वशिक्षाविशारदाः ॥ 4-59-17(30840)
यतो रथवरे शूरः सर्वशस्त्रभृतांवरः।
स्निग्धवैडूर्यसंकाशस्ताम्राक्षः प्रियदर्शनः ॥ 4-59-18(30841)
आदित्य इव तेजस्वी बलवीर्यसमन्वितः।
सर्वलोकधनुःश्रेष्ठः सर्वलोकेषु पूजितः।
अङ्गिरोशनसोस्तुल्यो नये बुद्धिमतांवरः ॥ 4-59-19(30842)
चत्वारो निखिला वेदाः साङ्गोपाङ्गाः सलक्षणाः ।
धनुर्वेदश्च कार्त्स्न्येन ब्राह्मं चास्त्रं प्रतिष्ठितम् ॥ 4-59-20(30843)
पुराणमितिहासश्च अर्थविद्या च मानवम् ।
भारद्वाजे समस्तानि सर्वाण्येतानि सांप्रतम् ॥ 4-59-21(30844)
क्षमा दमश्च सत्यं च तेजो मार्दवमार्जवम् ।
प्रतिष्ठिता गुणा यस्मिन्बहवो द्विजसत्तमे ॥ 4-59-22(30845)
यस्याहमिष्टः सततं मम चेष्टः सदा च सः।
क्षत्रधर्मं पुरस्कृत्य तेन योत्स्ये हि सांप्रतम् ॥ 4-59-23(30846)
आचार्यं प्रापयेदानीं ममोत्तर महारथम्।
अपरं पश्य संग्राममद्भुतं मम तस्य च॥ 4-59-24(30847)
उत्तरस्त्वेवमुक्तोऽश्वांश्चोदयामास तं प्रति ।
आजगामार्जुनरथो भारद्वाजरथं प्रति ॥ 4-59-25(30848)
तमापतन्तं वेगेन पाण्डवं सरथं रणे।
द्रोणोप्यभ्यद्रवत्पार्थं मतो मत्तमिव द्विपम् ॥ 4-59-26(30849)
स तु रुक्मरथं दृष्ट्वा कौन्तेयः समभिद्रुतम्।
आचार्यं तं महाबाहुः प्राञ्जलिर्वाक्यमब्रवीत् ॥ 4-59-27(30850)
उषिताः स्मो वने वासं प्रतिकर्मचिकीर्षवः ।
कोपं नार्हसि नः कर्तुं सदा समरदुर्जय ॥ 4-59-28(30851)
अहं तु ताडितः पूर्वं प्रहरेयं तवानघ ।
इति मे वर्तते बुद्धिस्तद्भवान्क्षन्तुमर्हति ॥ 4-59-29(30852)
ततः प्राध्मापयच्छङ्खं भेरीपटहवादितम् ।
व्यक्षोभत बलं सर्वमुद्धूतमिव सागरम् ॥ 4-59-30(30853)
वैशम्पायन उवाच। 4-59-31x(3239)
ततस्तु प्राहिणोद्द्रोणः शरानथ स विंशतिम्।
अप्राप्तानेव तान्पार्थश्चिच्छेद कृतहस्तवान् ॥ 4-59-31(30854)
ततः शरसहस्रेण रथं पार्थस्य वीर्यवान् ।
अवाकिरत्ततो द्रोणः शीघ्रहस्तं प्रदर्शयन् ॥ 4-59-32(30855)
एवं प्रववृते युद्धं भारज्वाजकिरीटिनोः ॥ 4-59-33(30856)
अश्वाञ्शोणान्महावेगान्हंसवर्णैस्तु वाजिभिः ।
मिश्रितान्समरे दृष्ट्वा व्यस्मयन्त पृथग्जनाः ॥ 4-59-34(30857)
रथं रथेन पार्थस्य समाहत्य परंतपः ।
हर्षयुक्तस्तदाऽऽचार्यः प्रत्यगृह्णात्स पाण्डवम् ॥ 4-59-35(30858)
समाश्लिष्टाविवान्योन्यं द्रोणपाण्डवयोर्ध्वजौ ।
दृष्ट्वा प्राकम्पत मुहुर्भारतानां महाचमूः ॥ 4-59-36(30859)
तत्तु युद्धं प्रववृते ह्याचार्यस्यार्जुनस्य च।
विमुञ्चतोः शरानुग्रान्विशिखान्दीप्ततेजसः ॥ 4-59-37(30860)
तौ वीरौ वीर्यसंपन्नौ दृष्ट्वा समरमूर्धनि।
आचार्यशिष्यौ रथिनौ कृतवीर्यौ तरस्विनौ ॥ 4-59-38(30861)
उभौ विश्रुतकर्माणावुभौ श्रमगतौ जये।
उभावतिरथौ लोके ह्युभौ परपुंरजयौ।
क्षिपन्तौ शरजालानि क्षत्रियान्मोह आविशत् ॥ 4-59-39(30862)
व्यस्मयन्त नराः सर्वे द्रोणार्जुनसमागमे।
नराणां ब्रुवतां वाक्यं श्रूयते स महास्वनः ॥ 4-59-40(30863)
द्रोणं हि समरे कोऽन्यो योद्धुमर्हत्यथार्जुनात्।
रौद्रः क्षत्रियधर्मोऽयं गुरं वै यदयोधयत् ॥ 4-59-41(30864)
इत्यब्रुवञ्जनास्तत्र संग्रामशिरसि स्थिताः ।
तौ समीक्ष्य तु संरब्धौ सन्निकृष्टौ महारथौ ॥ 4-59-42(30865)
छाद्येतां शरौघैस्तावन्योन्यमुपराजितौ ।
संयुगे संचकाशेतां कालसूर्याविवोदितौ ॥ 4-59-43(30866)
विष्फार्य च महाचापं हेमपृष्ठं दुरासदम्।
संरब्धस्तु तदा द्रोणः प्रत्ययुध्यत फल्गुनम् ॥ 4-59-44(30867)
स सायकमयैर्जालैरर्जुनस्य रथं प्रति।
भानुमद्भिः शिलाधौतैर्बाणैः प्राच्छादयद्दिशः ॥ 4-59-45(30868)
अर्जुनस्तु तदा द्रोणं महावेगैर्महारथः।
विव्याध शतशो बाणैर्धाराभिरिव पर्वतम् ॥ 4-59-46(30869)
कालमेघ इवोष्णान्ते फल्गुनः समवाकिरत् ॥ 4-59-47(30870)
तस्य जाम्बूनदमयैश्चितरैश्चापच्युतैः शरैः।
प्राच्छादयद्रथश्रेष्ठं भारद्वाजोऽर्जुनस्य वै ॥ 4-59-48(30871)
तथैव दिव्यं गाण्डीवं धनुरानम्य चार्जुनः ।
शत्रुघ्नं वेगवत्सृष्टं भारसाधनमुत्तमम् ॥ 4-59-49(30872)
शोभते स्म महावाहुर्गाण्डीवं विक्षिपन्धनुः।
शरांश्च विसृजंश्चित्रान्सुवर्णविकृतान्बहून् ॥ 4-59-50(30873)
प्राच्छादयदमेयात्मा भारद्वाजरथं प्रति।
द्रोणचापविनिर्मुक्तान्बाणान्बाणैरवारयत् ॥ 4-59-51(30874)
सरथोऽप्यचरत्पार्थः प्रेक्षणीयो महारथः ।
युगपद्दिक्षु सर्वासु सर्वतोऽस्त्राण्यवासृजम् ॥ 4-59-52(30875)
आददानं शरान्घोरान्संदधानं च पाण्डवम् ।
विसृजन्तं च क्रौन्तेयं न स्म पश्यन्ति लाघवाम् ॥ 4-59-53(30876)
एकच्छायमिवाकाशं बाणैश्चक्रे समन्ततः।
नादृश्यत ततो द्रोणो नीहारेणेव पर्वतः ॥ 4-59-54(30877)
मरीचिविकचस्येव राजन्भानुमतो वपुः।
आसीत्पार्थस्य सुमहद्वपुः शरशतार्चितम् ॥ 4-59-55(30878)
क्षिपतः शरजालानि कौन्तेयस्य महात्मनः ।
तान्विधूय शरान्घोरान्द्रोणोऽपि समितिंजयः ।
बभासे तिमिरं व्योम्नि विधूय सविता यथा ॥ 4-59-56(30879)
अग्निचक्रोपमं घोरं मण्डलीकृतमाहवे।
विकृष्य सुमहच्चापं मेघस्तनितनिस्वनम् ।
असकृत्मुञ्चतो बाणान्ददृशुः कुरवो युधि ॥ 4-59-57(30880)
दिक्षु सर्वासु विपुलः शुश्रुवेऽथ जनैस्तदा।
द्रोणस्यापि धनुर्घोषो विद्युत्स्तनितनिस्वनः ।
अभवद्विस्मयकरः सैन्यानां भरतर्षभ ॥ 4-59-58(30881)
तप्तजाम्बूनदमयैर्दीप्तैरग्निसमैः शरैः।
प्राच्छादयदमेयात्मा दिशः सूर्यस्य च प्रभाम् ॥ 4-59-59(30882)
ततः काञ्चनपङ्खानां शराणां नतपर्वणाम्।
वियद्गतानां चरतां दृश्यन्ते बहवो व्रजाः ॥ 4-59-60(30883)
शरासनात्तु द्रोणस्य प्रभवन्ति स्म सायकाः।
एको दीर्घ इवाभान्तः प्रदृश्यन्ते महाशराः ।
आकाशे समदृश्यन्त हंसानामिव पङ्क्तयः ॥ 4-59-61(30884)
एवं सुवर्णविकृतान्विमुञ्चन्तौ शरान्बहून्।
आकाशं संवृतं वीरावुल्काभिरिव चक्रतुः ॥ 4-59-62(30885)
तयोः शराश्च विबभुः कङ्कबर्हिणवाससः ।
पङ्क्त्यः शरदि मत्तानां सारसानामिवाम्बरे ॥ 4-59-63(30886)
तत्तु युद्धं महाघोरं तयोः संरब्धयोरभूत्।
अत्यद्भुतमचिन्त्यं च वृत्रवासवयोरिव ॥ 4-59-64(30887)
महागजाविवासाद्य विषाणाग्रैः परस्परम्।
शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः ॥ 4-59-65(30888)
अथ त्वाचार्यमुख्येन शरान्सृष्टाञ्शिलाशितान्।
अवारयच्छितैर्बाणैरर्जुनो जयतांवरः ॥ 4-59-66(30889)
दर्शयन्नैन्द्रमात्मानमुग्रमुग्रुपराक्रमः।
इषुभिस्तूर्णमाकाशं बहुभिश्च समावृणोत्। 4-59-67(30890)
जिघांसन्तं नरव्याघ्रमर्जुनं भीमदर्शनम् ।
विव्याध निशितैर्द्रोणः शरैः सन्नतपर्वभिः ॥ 4-59-68(30891)
हृष्टः समभवद्द्रोणो रणशौण्डः प्रतापवान् ।
अर्जुनेन समं क्रीडञ्शरैः सन्नतपर्वभिः ॥ 4-59-69(30892)
तौ व्यदारयतां शूरौ सन्नद्धौ रणशोभिनौ ।
उदीरयन्तौ दिव्यानि ब्राह्माद्यस्त्राणि भागशः ॥ 4-59-70(30893)
पार्थस्तु समरे शूरो दर्शयन्वीर्यमात्मनः।
स मह्यस्त्रैर्महात्मानं द्रोणं प्राच्छादयच्छरैः ॥ 4-59-71(30894)
अस्त्रैरस्त्राणि संवार्य पार्थो द्रोणमवारयत् ॥ 4-59-72(30895)
तयोरासीत्संप्रहारः क्रुद्धयोर्नरसिंहयोः।
अमृष्यमाणयोः सङ्ख्ये बलिवासवयोरिव ॥ 4-59-73(30896)
दर्शयेतां महास्राणि भारद्वाजार्जुनौ रणे ॥ 4-59-74(30897)
ऐन्द्रं वायव्यमाग्नेयमस्त्रमस्त्रेण पाण्डवः ।
मुक्तंमुक्तं द्रोणचापाद्ग्रमते स्म पुनः पुनः ॥ 4-59-75(30898)
एवं शूरौ महेष्वासौ विसृजन्तौ शिलाशितान्।
एकच्छायमकुर्वातां गगनं शरवृष्टिभिः ॥ 4-59-76(30899)
ततोऽर्जुनेन मुक्तानां पततां च शरीरिपु।
पर्वतेष्विव वज्राणां शराणां श्रूयते स्वनः ॥ 4-59-77(30900)
ततो नागा रथाश्वाश्च सादिनश्च विशांपते।
शोणिताक्ताश्च दृश्यन्ते पुष्पिता इव किंशुकाः ॥ 4-59-78(30901)
बाहुभिश्च सकेयूरैर्निकृत्तैश्च महारथैः ।
सुवर्णाचित्रैः कवचैर्ध्वजैश्च विनिपातितैः ॥ 4-59-79(30902)
योधैश्च निहतैस्तत्र पार्थबाणाभिपीडितैः।
बलमासीत्सुसंभ्रान्तं द्रोणार्जुनसमागमे ॥ 4-59-80(30903)
विधृन्वानौ तु तौ वीरौ धनुषी भारसाधने।
प्राच्छादयेतामन्योन्यं दिधक्षन्तौ वरेषुभिः ॥ 4-59-81(30904)
अथान्तरिक्षे नादोऽभूद्द्रोणं तत्र प्रशंसताम् ।
दुष्करं कृतवान्द्रोणो यदर्जुनमयोधयत् ॥ 4-59-82(30905)
प्रमाथिनं महावीर्यं दृढमुष्टिं दुरासदम्।
जेतारं सर्वदैत्यानां सर्वेषां च महारथम् ॥ 4-59-83(30906)
अविभ्रमं च शिक्षां च लाघवं दूरपातनम् ।
पार्थस्य समरे दृष्ट्वा द्रोणस्यासीच्च विस्मयः ॥ 4-59-84(30907)
तत्प्रवृत्तं चिरं घोरं तयोर्युद्धं महात्मनोः ।
अवर्तत महारौद्रं लोकसंक्षोभकरकम् ॥ 4-59-85(30908)
अथ गाण्डीवमुद्यम्य दिव्यं धनुरमर्षणः ।
विचकर्ष रणे पार्थो बाहुभ्यां भरतर्षभः ॥ 4-59-86(30909)
तस्य बाणमयं वर्षे शलभानामिवाभवत् ।
न च बाणान्तरे तस्य वायुः शक्नोति सर्पितुम् ॥ 4-59-87(30910)
अभीक्ष्णं संदधानस्य बाणानुत्सृजतस्तथा।
नान्तरं ददृशे किंचित्पार्थस्यापततोपी च ॥ 4-59-88(30911)
युद्धे तु कृतशीघ्रास्त्रे वर्तमाने सुदारुणे।
शीघ्राच्छीघ्रतरं पार्थः शरानन्यानुदैरयत् ॥ 4-59-89(30912)
ततः शरसहस्राणि शराणां नतपर्वणाम्।
युगपत्प्रापतंस्तत्र द्रोणस्य रथमन्तिकात् ॥ 4-59-90(30913)
विकीर्यमाणे द्रोणे तु शरैर्गाण्डीवधन्वना ॥
हाहाकारो महानासीत्सैन्यानां भरतर्षभ ॥ 4-59-91(30914)
पाण्डवस्य तु शीघ्रास्त्रं मघवा समपूजयत्।
गन्धर्वाप्सरसश्चैव ये च तत्र समागताः ॥ 4-59-92(30915)
द्रोणं युद्धार्णवे मग्नं दृष्ट्वा पुत्रः प्रतापवान्।
ततो वृन्देन महता रथिनां रथियूथपः ।
आचार्यपुत्रस्तु शरैः पाण्डवं प्रत्यवारयत् ॥ 4-59-93(30916)
अश्वत्थामा तु तत्कर्म हृदयेन महात्मनः।
पूजयामास पार्थस्य कोपं चास्य तदाऽकरोत् ॥ 4-59-94(30917)
स भन्युवशमापन्नः पार्थमभ्यद्रवद्रणे ।
किरञ्शरसहस्राणि पर्जन्य इव वृष्टिमान् ॥ 4-59-95(30918)
आवृत्य च महाबाहुर्यतो द्रोणस्ततोऽभवत्।
अन्तरं प्रददौ पार्थो द्रोणस्य व्यपसर्पितुम् ॥ 4-59-96(30919)
स तु लब्धान्तरस्तूर्णमपायाञ्जवनैर्हयैः ।
छिन्नवर्मध्वजरथो निकृत्तः परमेषुभिः ॥ 4-59-97(30920)
पराजिते तदा द्रोणे द्रोणपुत्रः समागतः।
सदण्ड इव रक्ताक्षः कृतान्तः समरे स्थितः ॥ ॥ 4-59-98(30921)

इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि एकोनषष्टितमोऽध्यायः ॥ 59 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.